Sbg 15.11 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।15.11।।मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानाः तैः निर्मलान्तःकरणाः योगिनः योगाख्येन चक्षुषा आत्मनि शरीरे अवस्थितम् अपि शरीराद् विविक्तं स्वेन रूपेण अवस्थितम् एनं पश्यन्ति। यतमानाः अपि अकृतात्मानः मत्प्रपत्तिविरहिणः तत एव असंस्कृतमनसः तत एव अचेतसः आत्मावलोकनसमर्थ चेतोरहिताः न एनं पश्यन्ति।
एवं रविचन्द्राग्नीनाम् इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेन इन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकं ज्ञानज्योतिः आत्मा मुक्तावस्थो जीवावस्थः च भगवद्विभूतिः इति उक्तम्तद्धाम परमं मम। (गीता 15।6)ममैवांशो जीवलोके जीवभूतः सनातनः।। (गीता 15।7) इति।इदानीम् अचित्परिणामविशेषभूतम् आदित्यादीनां ज्योतिष्मतां ज्योतिः अपि भगवद्विभूतिः इत्याह --