Sbg 15.11 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।15.11।।यतन्तो यत्नशीला योगिनश्च एनं आत्मनि बुद्धाववस्थितं विभुमुत्क्रान्त्यादिहीनमसङ्गं पश्यन्ति। यतन्तोऽपि अकृतात्मानः ये यज्ञादिभिरशोधितचित्ताः एनं न पश्यन्ति। यतः अचेतसोऽनिर्जितचित्ताः। पाषाणतुल्या इत्यर्थः।