Sbg 15.11 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।15.11।।यतन्तो योगिनश्चेति कारणान्तरमुच्यत इति प्रतीतिनिराकरणार्थमाह -- यतन्त इति। आत्मा जीवश्चेत्सर्वदाऽकृत एव? शरीरं चेदसम्भव इत्यत आह -- अकृते ति। आत्मा बुद्धिः? अकृतत्वं चाशुद्धत्वम्। केशान् करोतीत्यादौ शोधनेऽपि करोतेः प्रयोगादिति भावः।