Sbg 14.4 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।14.4।। --,देवपितृमनुष्यपशुमृगादि सर्वयोनिषु कौन्तेय? मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः संभवन्ति याः? तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ।।के गुणाः कथं बध्नन्तीति? उच्यते --,