Sbg 14.16 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।14.16।।सुकृतस्य सात्त्विकस्य कर्मणः फलं निर्मलं दुःखाज्ञानमलशून्यं सात्त्विकं ज्ञानवैराग्यादिकम्। रजसो राजसस्य कर्मणः फलं दुःखम्। तमसस्तामसस्य कर्मणः फलं अज्ञानम्। सात्विकादिकर्मलक्षणं चनियतं सङ्गरहितम् इत्यादिनाऽष्टादशे वक्ष्यति।