Sbg 14.10 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।14.10।।सत्त्वादयः कदा स्वस्वकार्ये प्रभवन्तीत्याशङ्क्येतरेतरयोरभिभवे सतीत्याह -- रज इति। रजस्तमसी अभिभूय सत्त्वं भवति वर्धते। एवं रजोपि सत्वतमसी अभिभूय भवति। तथा तमोऽपि सत्त्वरजसी अभिभूय भवतीत्यर्थः।