Sbg 13.9 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.9।। असक्तिः आत्मव्यतिरिक्तविषयेषु सङ्गरहितत्वम्? अनभिष्वङ्गःपुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण आश्लेषरहितत्वम् नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु -- संकल्पप्रभवेषु इष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम्।