Sbg 13.9 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.9।।किंचइन्द्रियार्थेष्विति। इन्द्रियार्थेषु शब्दादिषु दृष्टेष्वानुश्रविकेषु वा भोगेषु रागविरोधिन्यस्पृहात्मिका चित्तवृत्तिर्वैराग्यम्। आत्मश्लाघनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्वोत्कृष्ट इति गर्वोऽहंकारस्तदभावोऽनहंकारः। अयोगव्यवच्छेदार्थ एवकारः। समुच्चयार्थश्चकारः। तेनामानित्वादीनां विंशतिसंख्याकानां समुच्चितो योग एव ज्ञानमिति प्रोक्तं न त्वेकस्याप्यभाव इत्यर्थः। जन्मनो गर्भवासयोनिद्वारा निस्सरणरूपस्य? मृत्योः सर्वमर्मच्छेदनरूपस्य? जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवादिरूपायाः? व्याधीनां ज्वरातिसारादिरूपाणां? दुःखानामिष्टवियोगानिष्टसंयोगजानामध्यात्माधिभूताधिदैवनिमित्तानां दोषस्य वातपित्तश्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सितत्वस्य चानुदर्शनं पुनःपुनरालोचनम्। जन्मादिदुःखान्तेषु दोषस्यानुदर्शनं? जन्मादिव्याध्यन्तेषु दुःखरूपदोषस्यानुदर्शनमिति वा। इदं च विषयवैराग्यहेतुत्वेनात्मदर्शनस्योपकरोति।