Sbg 13.8 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।13.8।।इदानीमुक्तलक्षणात्क्षेत्राद्विविक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यंस्तज्ज्ञानसाधनान्याह -- अमानित्वमिति पञ्चभिः। अमानित्वं स्वगुणश्लाघाराहित्यम्? अदम्भित्वं दम्भराहित्यम्? अहिंसा परपीडावर्जनम्? क्षान्तिः सहिष्णुत्वम्?,आर्जवमवक्रता? आचार्योपासनं सद्गुरुसेवा? शौचं बाह्यमाभ्यन्तरं च? तत्र बाह्यं मृज्जलादिना? आभ्यन्तरं च रागादिमलक्षालनम्। तथाच स्मृतिःशौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा। मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरं? इति। स्थैर्यं सन्मार्गे प्रवृत्तस्य तदेकनिष्ठता? आत्मविनिग्रहः शरीरसंयमः? एतज्ज्ञानमिति प्रोक्तमिति पञ्चमेनान्वयः।