Sbg 13.8 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।13.8।।ननु षट्स्वर्थेषु प्रतिज्ञातेषु अमानित्वादिकमनन्तर्भूतं किमित्युच्यते इत्यत आह -- स चे ति। इति प्रतिज्ञातमर्थद्वयं वक्तुंज्ञेयं यत्तत् [13।13] इत्यादिना। न यादृशतादृशेन श्रवणेन तदनुभवारूढं भवतीत्याशयेनेति शेषः। मानाहङ्काराभ्यां दम्भं पृथक् दर्शयति -- आत्मे ति। आर्जवं ज्ञानसाधनं यथा स्यात्तथा व्याचष्टे -- आर्जवमि ति। एतच्च सन्मार्ग इति ज्ञातव्यम्।