Sbg 13.7 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।13.7।। अमानित्वम् उत्कृष्टजनेषु अवधीरणारहित्वम्। अदम्भित्वं धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः तद्रहितत्वम्। अहिंसा वाङ्मनःकायैः परपीडारहित्वम्। क्षान्तिः परैः पीड्यमानस्य अपि तान् प्रति अविकृतचित्तव्यम्। आर्जवं परान् प्रति वाङ्मनःकायवृत्तीनाम् एकरूपता। आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्। शौचम् आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा। स्थैर्यम् अध्यात्मशास्त्रोदितेषु अर्थेषु निश्चलत्वम्। आत्मविनिग्रहः -- आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम्।