Sbg 13.7 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.7।।ननूक्ते क्षेत्रे क्षेत्रज्ञो वक्तव्यस्तं हित्वा किमित्यन्यदुच्यते तत्राह -- क्षेत्रज्ञ इति। अनादिमदित्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान्विवक्षितविशेषणसहितं ज्ञेयं यत्तदित्यादिना वक्ष्यतीति संबन्धः। किमिति क्षेत्रज्ञो वक्ष्यते तत्राह -- यस्येति। ज्ञेयं यत्तदित्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह -- अधुनेति। अमानित्वादिलक्षणं विदधातीत्युत्तरत्र संबन्धः। ज्ञानसाधनसमुदायबोधनं कुत्रोपयुज्यते तत्राह -- यस्मिन्निति ।
योग्यमधिकृतमेव विवृणोति --
यत्पर इति।
एतज्ज्ञानमिति वचनात्कथमिदं ज्ञानसाधनमित्याशङ्क्याह --
तमिति।
तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति --
भगवानिति।
अमानित्वादिनिष्ठस्यान्तर्धियो ज्ञानमिति,नियमार्थमाह --
अमानित्वमिति।
मानस्तिरोहितोऽवलेपः। स चात्मन्युत्कर्षारोपहेतुः सोऽस्येति मानी न मान्यमानी तस्य भावोऽमानित्वमिति व्याकरोति --
अमानित्वमित्यादिना।
प्रतियोगिमुखेनादम्भित्वं विवृणोति --
अदम्भित्वमिति।
वाङ्मनोदेहैरपीडनं प्राणिनामहिंसनम्? तदेवाहिंसेत्याह --
अहिंसेति।
परापराधस्य चित्तविकारकारणस्य प्राप्तावेवाविकृतचित्तत्वेनापकारसहिष्णुत्वं क्षान्तिरित्याह --
क्षान्तिरिति।
अवक्रत्वमकौटिल्यं यथाहृदयव्यवहारः सदैकरूपप्रवृत्तिनिमित्तत्वं चेत्यर्थः।उपनीय तु यः शिष्यम् इत्यादिनोक्तमाचार्यं व्यवच्छिनत्ति --
मोक्षेति।
शुश्रूषादीत्यादिपदं नमस्कारादिविषयम्। बाह्यमाभ्यन्तरं च द्विप्रकारं शौचं क्रमेण विभजते --,
शौचमित्यादिना।
मनसो रागादिमलानामिति संबन्धः। तापनयोपायमुपदिशति --
प्रतिपक्षेति।
रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिस्तयेति यावत्। स्थिरभावमेव विशदयति --
मोक्षेति।
आत्मनो नित्यसिद्धस्यानाधेयातिशयस्य कुतो विनिग्रहस्तत्राह --
आत्मन इति।