Sbg 13.6 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।13.6।। -- महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वात् भूतानि च सूक्ष्माणि। स्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहंकारः महाभूतकारणम् अहंप्रत्ययलक्षणः। अहंकारकारणं बुद्धिः अध्यवसायलक्षणा। तत्कारणम् अव्यक्तमेव च? न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्यया (गीता 7।14) इत्युक्तम्। एवशब्दः प्रकृत्यवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः। चशब्दः भेदसमुच्चयार्थः। इन्द्रियाणि दश? श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि? वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश। एकं च किं तत् मनः एकादशं संकल्पाद्यात्मकम्। पञ्च च इन्द्रियगोचराः शब्दादयो विषयाः। तानि एतानि सांख्याः चतुर्विंशतितत्त्वानि आचक्षते।।