Sbg 13.6 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।13.6।।तच्च यच्च यादृक् च यद्विकारि चेत्येतद्व्याचष्टे -- महाभूतानीति। चकारो भिन्नक्रमो बुद्धिश्चेति बुद्धिपदादुपरि द्रष्टव्यः। यत्क्षेत्रं शरीराख्यमुक्तं तदव्यक्तमेव।शरीरं रथमेव तु इति श्रुतौ अव्यक्तपदेन पञ्चतन्मात्रा उच्यन्ते। अहंकारो तत्प्रकारमाह -- महाभूतान्यहंकारो बुद्धिश्चेति सप्तप्रकारैरङ्कुरितम्। महाभूतशब्देन पञ्चतन्मात्रा उच्यन्ते। अहंकारो बुद्धिरिति महत्तत्त्वमुच्यते। स्वप्ने हि एतान्येव करणानि भासन्ते तत्प्रकारक एव भूतगण इति तावत्प्रकारकमेव क्षेत्रमित्युक्तम्। यद्विकारीत्यस्योत्तरमाह -- इन्द्रियाणीति। इन्द्रियाणि दशैकं चेत्येकादश। पञ्च ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुरसनघ्राणानि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि मनश्चेत्येकादश। इन्द्रियाणां गोचरा विषयाः स्थूला वियदादयः पञ्च अयं षोडशको विकार एव। एतान्येव सांख्यैश्चतुर्विंशतितत्त्वानि गण्यन्ते। एतावांस्त्वस्माकं विशेषः। तैः स्वतन्त्रा सत्या च प्रकृतिरुच्यते अस्माभिर्मायारूपा मिथ्या ईश्वराधीना चोच्यत इति। तथा च श्रुतिःमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति। तस्मात्सांख्यप्रक्रियात्र भगवताश्रितेति न भ्रमितव्यम्।