Sbg 13.6 scdhan
Sanskrit Commentary By Sri Dhanpati ।।13.6।।एवं क्षेत्रादियाथात्म्यस्तुत्याभिमुखीकृतायार्जनाय किं तदिति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति -- महाभूतानीति। सर्बविकारव्यापकत्वान्महान्ति च तानि भूतानि सूक्ष्माणि अहंप्रत्ययरुपोहंकारः महाभूतकारण बुद्धिरध्वसायलक्षणाहंकारकारणं न व्यकतव्यक्तं अव्याकृतमीश्वरशक्तिर्मायामायां तु प्रकृतिं विद्यात्?मम माया दुरत्यया इत्युक्ता। एवशब्दोऽवधारणार्थः। एतावत्येवाष्टधा भिन्ना प्रकृतिरित्यर्थः। चकारः मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयार्थः। इन्द्रियाणि दश श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि ज्ञानोत्पादकत्वाज्ज्ञानेन्द्रियाणि पञ्च? वाक्पाणिपादपायुपस्थाख्यानि कर्मनिर्वर्तकत्वात्मकर्मेन्द्रियाणि पञ्च एकं एकादशं संकल्पविकल्पात्मकं मनः पञ्चेन्द्रियाणां गोचराः विषयाः शब्दस्पर्शरुपरसगन्धाख्यगुणविशिष्टानि स्थूलभूतानीत्यर्थः। तान्येतानिमूलप्रकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।,षोडशकस्तु विकारः इति वादिनः सांख्याश्चतुर्विशतितत्त्वानि व्याचक्षते।