Sbg 13.5 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।13.5।।कैर्विस्तरेणोक्तस्यायं संक्षेप इत्यपेक्षायामाह -- ऋषिभिरिति। ऋषिभिर्वसिष्ठादिभिर्योगशास्त्रेषु ध्यानधारणादिविषयत्वेन वैराजादिरूपेण बहुधा गीतं निरूपितम्? विविधैर्विचित्रैश्च नित्यनैमित्तिककाम्यविषयैश्छन्दोभिर्वेदैर्नानायजनीयदेवतादिरूपेण गीतं? ब्रह्मणः सूत्रैः पदैश्च। ब्रह्म सूत्र्यते सूच्यत एभिरिति ब्रह्मसूत्राणियतो वा इमानि भूतानि जायन्ते इत्यादीनि तटस्थलक्षणपराण्युपनिषद्वाक्यानि? तथाच ब्रह्म पद्यते गम्यते साक्षाज्ज्ञायत एभिरिति पदानि स्वरूपलक्षणपराणिसत्यं ज्ञानमनन्तं ब्रह्म इत्यादीनि तैश्च बहुधा गीतम्। किंच हेतुमद्भिःसदेव सोम्येदमग्र आसीत्कथमसतः सज्जायेत इति तथाको ह्येवान्यात्कः प्राण्यात्? यदेष आकाश आनन्दो न स्यात्? एष ह्येवानन्दयति इत्यादियुक्तिमद्भिः। अन्यादपानचेष्टां कः कुर्यात्? प्राण्यात्प्राणानां व्यापारं को वा कुर्यात् इति पदयोरर्थः। विनिश्चितैरुपक्रमोपसंहारैकवाक्यतया असंदिग्धार्थप्रतिपादकैरित्यर्थः। तदेवमेतैर्विस्तरेणोक्तं दुःसंग्रहं संक्षेपतस्तुभ्यं कथयिष्यामि तच्छृण्विवत्यर्थः। यद्वाअथातो ब्रह्मजिज्ञासा इत्यादीनि ब्रह्मसूत्राणि गृह्यन्ते? तान्येव ब्रह्म पद्यते निश्चीयत एभिरिति पदानि? तैर्हेतुमद्भिःईक्षतेर्नाशब्दम्आनन्दमयोऽभ्यासात् इत्यादिभिर्युक्तिमद्भिर्विनिश्चितार्थैः। शेषं समानम्।