Sbg 13.5 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.5।। महाभूतानि अहंकारो बुद्धिः अव्यक्तम् एव च इति क्षेत्रारम्भकद्रव्याणि? पृथिव्यप्तेजोवाय्वाकाशमहाभूतानि? अहंकारो भूतादिः? बुद्धिः महान्? अव्यक्तं प्रकृतिः। इन्द्रियाणि दश एकं च पञ्च च इन्द्रियगोचराः? इति क्षेत्राश्रितानि तत्त्वानि? श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि? तानि दश? एकम् इति मनः। इन्द्रियगोचराः च पञ्च शब्दस्पर्शरूपरसगन्धाः।