Sbg 13.5 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।13.5।।बहुधान्योक्तभ्रमाभावाय प्रपञ्चयति -- ऋषिभिरिति। ऋषिभिः स्वानुभवोत्पन्नफलनिरूपणेन बहुधा बहुप्रकारेण गीतम्। किञ्च? छन्दोभिर्वेदैर्विविधैः कर्मज्ञानोपासनकाम्यादिभिः पृथक् भिन्नतया अधिकारपरत्वेन गीतम्। तथैव ब्रह्मसूत्रपदैश्च ब्रह्म सूत्र्यते एभिरिति ब्रह्मसूत्राणिजन्माद्यस्य यतः [ब्र.सू.1।1।2] इत्यादीनि। तथाच ब्रह्म प्रपद्यते गम्यते एभिरिति पदानि एको देवो बहुधा निविष्टः [तै.आ.3।14] इत्यादीनि तैर्बहुधा श्रुत्यनुसारेणैव गीतम्। कीदृशैस्तैः हेतुमद्भिः सहेतुकैः को ह्येवान्यात् कः प्राण्यात्? यदेष आकाश आनन्दो न स्यात् [तै.उ.2।7] एष ह्येव तं साधु कर्म कारयति [कौ.उ.3।9] इत्यादिभिः। विनिश्चितैः निस्सन्दिग्धैः स्वानुभवप्रतिपादकैरित्यर्थः। एवं विस्तरेणैतैरुक्तं दुर्बोधं याथातथ्येन तत् समासेन मे मत्तः उक्तं शृणु। कथयामीत्यर्थः।