Sbg 13.3 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.3।। तत् क्षेत्रं यत् च यद्द्रव्यम्? यादृक् च येषाम् आश्रयभूतम्? यद्विकारि ये च अस्य विकाराः? यतः च यतो हेतोः इदम् उत्पन्नं यस्मै प्रयोजनाय उत्पन्नम् इत्यर्थः। यत् यत्स्वरूपं च इदं सः च यः स च क्षेत्रज्ञो यः यत्स्वरूपो यत्प्रभावः च ये च अस्य प्रभावाः? तत् सर्वं समासेन संक्षेपेण मे मत्तः श्रृणु।