Sbg 13.3 scang
Sanskrit Commentary By Sri Abhinavgupta ।।13.2 -- 13.3।।क्वचित् श्रुतौ क्षेत्रज्ञ उपास्यः इति श्रूयते। स च किमात्मा? उत ईश्वरः अथ तृतीयः कश्चिदन्य एव इति प्रश्नाशङ्कायाम् -- श्रीभगवानादिशतिं -- इदमिति? क्षेत्रज्ञमिति। संसारिणां शरीरं क्षेत्रम्? यत्र कर्मबीजप्ररोहः। अत एव तेषामात्मा आगन्तुककालुष्यरूषितः क्षेत्रज्ञ उच्यते। प्रबुद्धानां तदेव क्षेत्रम्। अन्वर्थभेदस्तु तद्यथा -- क्षिणोति कर्मबन्धमुपभोगेन? त्रायते जन्ममरणभयात् इति। तांश्च प्रति परमात्मा वासुदेवः (S? वासुदेवाख्यः) क्षेत्रज्ञः। एतत्क्षेत्रं (S?N यो वेदयति। वेदेत्यन्तर्भा यो वेदयति अन्तर्भा -- ) यो वेद? वेदयति इत्यन्तर्भावितण्यर्थो (N -- ण्यर्थोऽत्र) विदिः। तेन यत्प्रसादादचेतनमिदं चेतनीभावमायाति स एव क्षेत्रज्ञो नान्यः कश्चित्। विशेषस्तु परिमितव्याप्तिकं रूपमालम्ब्य आत्मेति भण्यते अपरिच्छिन्नसर्वक्षेत्रव्याप्त्या परमात्मा भगवान् वासुदेवः। ममेति कर्मणि षष्ठी अहमनेन ज्ञानेन ज्ञेयः इत्यर्थः।