Sbg 13.33 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।13.33।।यथा आकाशं सर्वगतम् अपि सर्वैः वस्तुभिः संयुक्तम् अपि सौक्ष्म्यात् सर्ववस्तुस्वभावैः न लिप्यते? तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देवमनुष्यादौ देहे अवस्थितः अति तत्तद्देहस्वमावैः न लिप्यते।