Sbg 13.32 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।13.32।। तथापि परमेश्वरस्य संसारावस्थायां देहकर्मसंबन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुखदुःखादिवैषम्यं दुष्परिहरमिति कुतः समदर्शनं तत्राह -- अनादित्वादिति। यदुत्पत्तिमत्तदेव हि व्येति विनाशमेति। यच्च गुणवद्वस्तु तस्य गुणनाशे व्ययो भवति। अयं तु परमात्मा अनादिर्निर्गुणश्चातोऽव्ययः। अविकारीत्यर्थः। तस्माच्छरीरे स्थितोऽपि किंचिन्न करोति? नच कर्मफलैर्लिप्यत इति।