Sbg 13.32 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।13.32।।अव्यय इत्यनुवादेन लेपाभावमात्रं विधीयत इत्यन्यथाप्रतीतिनिरासार्थमाह -- न चे ति। एतेनाव्ययत्वमपि साध्यमप्राप्तत्वादित्युक्तं भवति। तस्य विष्णोः अनेन जीवविशेषणमेतत् तस्य प्राप्तिसद्भावेन प्रतिषेधोपपत्तेरिति निरस्तम्। विष्णोरपिशरीरस्थोऽपि इति प्राप्तेरुक्तत्वात् अनादित्वनिर्गुणत्वयोरव्ययत्वे हेतुत्वमुपपादयितुं व्याप्तिमाह -- सादी ति। यद्व्ययि तत्प्रायः सादि गुणात्मकं चेति योजना। प्रागभावे व्यभिचारपारहारायप्रायः इत्युक्तम्। ससाद्यव गुणात्मकमेवेत्यवधारणेन यथास्थितयोजना वा। न करोति निर्गुणत्वादिति ईश्वरस्य क्रियागुणाभावः प्रतीयत इत्यत आह -- न करोती ति। पुरस्तादुक्तमेव स्मारयति -- ने ति। इत्यादिवदक्रियत्वादिकं व्याख्येयमिति शेषः। यद्यप्यव्ययत्वमप्यत्र साध्यं तथापि तल्लोकतो ज्ञातुं शक्यत इति लोपाभावमात्रं? यथा सर्वगतिमित्युपपद्यते।