Sbg 13.2 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।13.2।।पूर्वसङ्गतत्वेनाध्यायप्रतिपाद्यं दर्शयति -- पूर्वोक्ते ति। पूर्वमाषष्ठसमाप्तेर्यत् ज्ञानं ज्ञानसाधनमुक्तम्? यच्च सप्तमादिभिः षड्भिर्ज्ञेयं ब्रह्मस्वरूपमुक्तम्? यदपिभूमिरापः [7।4] इत्यादिना क्षेत्रमुक्तम्? यच्चन त्वेवाहं [2।12] इत्यादिना पुरुषभेद उक्तः? तत्सर्वमनेनाध्यायेन दर्शयति भगवान्। किमर्थं पिण्डीकृत्य विक्षिप्तमेकीकृत्य। गौणोऽत्र क्त्वाप्रत्ययः पिण्डीकरणार्थमित्यर्थः। पिण्डीकरणे मिश्रत्वादप्रतिपत्तिरेवेत्यत उक्तम् -- विविच्ये ति। प्रकरणशुद्ध्येत्यर्थः।