Sbg 13.24 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।13.24।। केचित् निष्पन्नयोगा आत्मनि शरीरे अवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन भक्तियोगेन पश्यन्ति। अन्ये च अनिष्पन्नयोगाः सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति। अपरे योगादिषु आत्मावलोकनसाधनेषु अनधिकृता ये ज्ञानयोगानधिकारिणः? तदधिकारिणः च? सुकरोपायसक्ताः व्यपदेश्याः च? कर्मयोगेन अन्तर्गतज्ञानेन मनसा योगयोग्यताम् आपाद्य आत्मानं पश्यन्ति।