Sbg 13.24 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.24।।तदेवं स च यो यत्प्रभावश्चेति व्याख्यातं? इदानीं यज्ज्ञात्वाऽमृतमश्नुत इत्युक्तमुपसंहरति -- य एवमिति। य एवमुक्तेन प्रकारेण वेत्ति पुरुषमयमहमस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्वविकारैः सह मिथ्याभूतामात्मविद्यया बाधितां वेत्ति निवृत्ते ममाज्ञानतत्कार्ये इति स सर्वथा प्रारब्धकर्मवशादिन्द्रवद्विधिमतिक्रम्य वर्तमानोऽपि भूयो न जायते। पतितेऽस्मिन्विद्वच्छरीरे पुनर्देहग्रहणं न करोति। अविद्यायां विद्यया नाशितायां तत्कार्यासंभवस्य बहुधोक्तत्वात्।तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् इति न्यायात्। अपिशब्दाद्विधिमनतिक्रम्य वर्तमानः स्ववृत्तस्थो भूयो न जायत इति किमु वक्तव्यमित्यभिप्रायः।