Sbg 13.23 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।13.23।।तदनेन प्रकारेण प्रकृत्यविवेकात्पुरुषस्य संसारो न तु स्वरूपत इत्याशयेन तस्य स्वरूपमाह -- उपद्रष्टेति। अस्मिन्प्रकृतिकार्ये देहे च वर्तमानोऽपि पुरुषः परो भिन्न एव न तद्गुणैर्युज्यत इत्यर्थः। तत्र हेतवः -- यस्मादुपद्रष्टा पृथग्भूत एवं समीपे स्थित्वा द्रष्टा? तथाऽनुमन्ता अनुमोदितैव संनिधिमात्रेणानुग्राहकःसाक्षी चेता केवलो निर्गुणश्च इत्यादिश्रुतेः। तथा ऐश्वरेण रूपेण भर्ता विधारक इति चोक्तः? भोक्ता पालक इति च? महांश्चासावीश्वरश्चेति? स ब्रह्मादीनामधिपतिरिति च? परमात्मान्तर्यामीति चोक्तः श्रुत्या। तथाच श्रुतिःएष भूताधिपतिरेष लोकेश्वर एष लोकपालः इत्यादिः।