Sbg 13.23 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।13.23।। --, उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतः। यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतः यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणाम् ईक्षिता? तद्वच्च कार्यकरणव्यापारेषु अव्यापृतः अन्यः तद्विलक्षणः तेषां कार्यकरणानां सर्वव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा। अथवा? देहचक्षुर्मनोबुद्ध्यात्मानः द्रष्टारः? तेषां बाह्यः द्रष्टा देहः? ततः आरभ्य अन्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा? यतः परः अन्तरतमः नास्ति द्रष्टा सः अतिशयसामीप्येन द्रष्ट्टत्वात् उपद्रष्टा स्यात्। यज्ञोपद्रष्ट्टवद्वा सर्वविषयीकरणात् उपद्रष्टा। अनुमन्ता च? अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः? तत्कर्ता अनुमन्ता च। अथवा? अनुमन्ता? कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलः विभाव्यते? तेन अनुमन्ता। अथवा? प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयति इति अनुमन्ता। भर्ता? भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणम्? तत् चैतन्यात्मकृतमेव इति भर्ता आत्मा इति उच्यते। भोक्ता? अग्न्युष्णवत्? नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाः चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्ते इति भोक्ता आत्मा उच्यते। महेश्वरः? सर्वात्मत्वात् स्वतन्त्रत्वाच्च महान् ईश्वरश्च इति महेश्वरः। परमात्मा? देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानाम् अविद्यया परमः उपद्रष्टृत्वादिलक्षणः आत्मा इति परमात्मा। सोऽन्तः परमात्मा इत्यनेन शब्देन च अपि उक्तः कथितः श्रुतौ। क्व असौ अस्मिन् देहे पुरुषः परः अव्यक्तात्? उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (गीता 15।17) इति यः वक्ष्यमाणः।।


क्षेत्रज्ञं चापि मां विद्धि (गीता 13।2) इति उपन्यस्तः व्याख्याय उपसंहृतश्च? तमेतं यथोक्तलक्षणम् आत्मानम् --,