Sbg 13.23 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।13.23।।एवं रसभोगेच्छां कारणत्वेनोक्त्वा तत्र देहादिषु प्रविष्टस्य स्वल्पांशस्याविद्यात्मकजीवस्य भोगादिदर्शने पुरुषस्य कथं भोगः कथं तेन जीवस्य संसारः इत्याशङ्कायां समाधत्ते -- उपद्रष्टेति। परः पुरुषः पुरुषोत्तमः अस्मिन्देहे उपद्रष्टा? उपसमीपे द्रष्टा साक्षी? तथा अनुमन्ता अनुमोदिता? भर्त्ता धारकः? भोक्ता रक्षकः? महेश्वरः महांश्चासावीश्वरश्च सः। तथैव परमात्मा। चकारेण प्राणजीवादिरप्युक्त इत्यर्थः।अयं भावः -- देहादिकं सर्वं भगवति निवेद्य तद्दत्तप्रसादत्वेन सेवार्थोपयोगिभोगकर्तुः साक्षी -- मुख्यसेवायां तदुपयोगकारयिता। एवमेव कृतसमर्पणमोदे अनु पश्चान्मोदिता। एवमेव भर्त्ता? पतित्वेन धारकपोषक इत्यर्थः। तथैव भोक्तृत्वेन स्वीयत्वज्ञानेन रक्षकः। तथैव महेश्वरः कर्तृ़णां ब्रह्मादीनामपि प्रभुः? तेन तादृग्वस्तुकर्त्तेत्यर्थः। तथैव परमात्मा तादृग्धर्मवतो मित्ररूप इत्यर्थः।