Sbg 13.23 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.23।।यथोक्तप्रकारेण जीवेश्वरादिसर्वकल्पनाधिष्ठानत्वेनेत्यर्थः। साक्षादपरोक्षत्वेनेति यावत्। यथोक्तामनाद्यनिर्वाच्यां सर्वानर्थोपाधिभूतामित्यर्थः। विद्यया प्रागुक्तैकत्वगोचरया प्रकृतिमविद्यारूपां सकार्यामभावमापादितां यो वेत्तीति संबन्धः। सर्वप्रकारेण विहितेन निषिद्धेन चेत्यर्थः। पुनर्नकारोऽन्वयार्थः। निपातसूचितं न्यायमाह -- अपीति। न स भूयोऽभिजायत इत्युक्तमाक्षिपति -- नन्विति। ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात्पुनर्देहारम्भमुपेत्य नाक्षेपः स्यादित्याशङ्क्याह -- यद्यपीति। तथापि स्युस्त्रीणि जन्मानीति संबन्धः। वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणां फलमदत्त्वा नाशायोगाज्जन्मद्वयमावश्यकमतीतानेकदेहेष्वपि,कृतकर्मणांनाभुक्तं क्षीयते कर्म इत्येव स्मृतेरदत्त्वा फलमनाशादस्ति तृतीयमपि जन्मेत्याह -- प्रागिति। फलदानं विनापि कर्मनाशे दोषमाह -- कृतेति। न युक्त इति कृत्वा फलमदत्त्वा कर्मनाशो नेति शेषः। विमतानि कर्माणि फलमदत्त्वा न क्षीयन्ते वैदिककर्मत्वादारब्धकर्मवदिति मत्वाह -- यथेति। नाशो न ज्ञानादिति शेषः। नन्वनारब्धकर्मणां ज्ञानान्नाशो युक्तोऽप्रवृत्तफलवत्त्वादारब्धकर्मणां तु प्रवृत्तफलवत्त्वेन बलवत्त्वान्न ज्ञानात्तन्निवृत्तिरित्याह -- नचेति। अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात्प्रवृत्ताप्रवृत्तफलत्वमनुपयुक्तमिति भावः। कर्मणां फलमदत्त्वा नाशाभावे फलितमाह -- तस्मादिति। ननु कर्मणां बहुत्वात्तत्फलेषु जन्मसु कुतस्त्रित्वमारम्भकर्मणां त्रिप्रकारत्वादिति चेन्नानारब्धत्वेनैकप्रकारकत्वसंभवात्तत्राह -- संहतानीति। नास्ति ज्ञानस्यैकान्तिकफलत्वमिति शेषः। उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषमनुभाष्यं तस्यातिप्रसञ्जकत्वमाह -- अन्यथेति। सर्वत्रेत्यारब्धकर्मस्वपीति यावत्। फलजनकत्वानिश्चयोऽनाश्वासः। कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -- शास्त्रेति। अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह -- इत्यत इति। श्रुत्यवष्टम्भेन परिहरति -- नेत्यादिना। ज्ञानादनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -- इहापीति। ज्ञानाधीनसर्वकर्मदाहे सर्वधर्मान्परित्यज्येति वाक्यशेषोऽपि प्रमाणीभवतीत्याह -- वक्ष्यति चेति। ज्ञानादनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्येत्याह -- उपपत्तेश्चेति। तामेव विवृणोति -- अविद्येति। अज्ञस्याविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवदर्थक्रियासामर्थ्याभावादित्यर्थः। प्रतीतिमात्रदेहानां कर्माभासानां न फलारम्भकतेत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -- इहापीति। तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -- बीजानीति। ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -- अस्त्विति। विरोधिग्रस्तानामेवोत्पत्तिरिति हेतुमाह -- ज्ञानेति। अस्मिञ्जन्मनि जन्मान्तरे वा ज्ञानात्पूर्वभाविकर्मणां न ततो दाहो विरोधिनं विना प्रवृत्तेरित्याह -- नत्विति। श्रुतिस्मृतिविरोधान्नैवमिति परिहरति -- नेत्यादिना। सर्वशब्दश्रुतेः। संकोचं शङ्कते -- ज्ञानेति। प्रकरणादिसंकोचकाभावान्नैवमित्याह -- नेति। आक्षेपदशायामुक्तमनुमानमनुवदति -- यत्त्विति। आभासत्वादिदमसाधकमिति दूषयति -- तदसदिति। व्याप्त्यादिसत्त्वे कथमाभासत्वमिति पृच्छति -- कथमिति। प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गादाभासत्वधीरित्याह -- तेषामिति। तदेव प्रपञ्चयति -- यथेत्यादिना। धनुषः सकाशादिषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये न पतति तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयो नच तत्त्वज्ञानं तादृक्प्रतिबन्धकमुत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वादित्यर्थः। यत्र ज्ञानेनादाह्यत्व तत्र प्रवृत्तफलत्वमित्यन्वयेऽपि यत्राप्रवृत्तफलत्वं तत्र ज्ञानदाह्यत्वमिति न व्यतिरेकसिद्धिरित्याशङ्क्याह -- स एवेति। प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः। स्वाश्रयस्थानि साभासान्तःकरणनिष्ठानीति यावत्। विमतानि तत्त्वधीनिमित्तनिवृत्तीनि तत्कृतकारणनिवृत्तित्वाद्रज्जुसर्पादिवदिति व्यतिरेकसिद्धिरिति भावः। विदुषो वर्तमानदेहपाते देहहेत्वभावात्तत्वधीरैकान्तिकफलेत्युपसंहरति -- पतित इति।