Sbg 13.23 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।13.23।।यथोक्तप्रकारेण जीवेश्वरादिसर्वकल्पनाधिष्ठानत्वेनेत्यर्थः। साक्षादपरोक्षत्वेनेति यावत्। यथोक्तामनाद्यनिर्वाच्यां सर्वानर्थोपाधिभूतामित्यर्थः। विद्यया प्रागुक्तैकत्वगोचरया प्रकृतिमविद्यारूपां सकार्यामभावमापादितां यो वेत्तीति संबन्धः। सर्वप्रकारेण विहितेन निषिद्धेन चेत्यर्थः। पुनर्नकारोऽन्वयार्थः। निपातसूचितं न्यायमाह -- अपीति। न स भूयोऽभिजायत इत्युक्तमाक्षिपति -- नन्विति। ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात्पुनर्देहारम्भमुपेत्य नाक्षेपः स्यादित्याशङ्क्याह -- यद्यपीति। तथापि स्युस्त्रीणि जन्मानीति संबन्धः। वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणां फलमदत्त्वा नाशायोगाज्जन्मद्वयमावश्यकमतीतानेकदेहेष्वपि,कृतकर्मणांनाभुक्तं क्षीयते कर्म इत्येव स्मृतेरदत्त्वा फलमनाशादस्ति तृतीयमपि जन्मेत्याह -- प्रागिति। फलदानं विनापि कर्मनाशे दोषमाह -- कृतेति। न युक्त इति कृत्वा फलमदत्त्वा कर्मनाशो नेति शेषः। विमतानि कर्माणि फलमदत्त्वा न क्षीयन्ते वैदिककर्मत्वादारब्धकर्मवदिति मत्वाह -- यथेति। नाशो न ज्ञानादिति शेषः। नन्वनारब्धकर्मणां ज्ञानान्नाशो युक्तोऽप्रवृत्तफलवत्त्वादारब्धकर्मणां तु प्रवृत्तफलवत्त्वेन बलवत्त्वान्न ज्ञानात्तन्निवृत्तिरित्याह -- नचेति। अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात्प्रवृत्ताप्रवृत्तफलत्वमनुपयुक्तमिति भावः। कर्मणां फलमदत्त्वा नाशाभावे फलितमाह -- तस्मादिति। ननु कर्मणां बहुत्वात्तत्फलेषु जन्मसु कुतस्त्रित्वमारम्भकर्मणां त्रिप्रकारत्वादिति चेन्नानारब्धत्वेनैकप्रकारकत्वसंभवात्तत्राह -- संहतानीति। नास्ति ज्ञानस्यैकान्तिकफलत्वमिति शेषः। उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषमनुभाष्यं तस्यातिप्रसञ्जकत्वमाह -- अन्यथेति। सर्वत्रेत्यारब्धकर्मस्वपीति यावत्। फलजनकत्वानिश्चयोऽनाश्वासः। कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -- शास्त्रेति। अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह -- इत्यत इति। श्रुत्यवष्टम्भेन परिहरति -- नेत्यादिना। ज्ञानादनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -- इहापीति। ज्ञानाधीनसर्वकर्मदाहे सर्वधर्मान्परित्यज्येति वाक्यशेषोऽपि प्रमाणीभवतीत्याह -- वक्ष्यति चेति। ज्ञानादनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्येत्याह -- उपपत्तेश्चेति। तामेव विवृणोति -- अविद्येति। अज्ञस्याविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवदर्थक्रियासामर्थ्याभावादित्यर्थः। प्रतीतिमात्रदेहानां कर्माभासानां न फलारम्भकतेत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -- इहापीति। तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -- बीजानीति। ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -- अस्त्विति। विरोधिग्रस्तानामेवोत्पत्तिरिति हेतुमाह -- ज्ञानेति। अस्मिञ्जन्मनि जन्मान्तरे वा ज्ञानात्पूर्वभाविकर्मणां न ततो दाहो विरोधिनं विना प्रवृत्तेरित्याह -- नत्विति। श्रुतिस्मृतिविरोधान्नैवमिति परिहरति -- नेत्यादिना। सर्वशब्दश्रुतेः। संकोचं शङ्कते -- ज्ञानेति। प्रकरणादिसंकोचकाभावान्नैवमित्याह -- नेति। आक्षेपदशायामुक्तमनुमानमनुवदति -- यत्त्विति। आभासत्वादिदमसाधकमिति दूषयति -- तदसदिति। व्याप्त्यादिसत्त्वे कथमाभासत्वमिति पृच्छति -- कथमिति। प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गादाभासत्वधीरित्याह -- तेषामिति। तदेव प्रपञ्चयति -- यथेत्यादिना। धनुषः सकाशादिषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये न पतति तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयो नच तत्त्वज्ञानं तादृक्प्रतिबन्धकमुत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वादित्यर्थः। यत्र ज्ञानेनादाह्यत्व तत्र प्रवृत्तफलत्वमित्यन्वयेऽपि यत्राप्रवृत्तफलत्वं तत्र ज्ञानदाह्यत्वमिति न व्यतिरेकसिद्धिरित्याशङ्क्याह -- स एवेति। प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः। स्वाश्रयस्थानि साभासान्तःकरणनिष्ठानीति यावत्। विमतानि तत्त्वधीनिमित्तनिवृत्तीनि तत्कृतकारणनिवृत्तित्वाद्रज्जुसर्पादिवदिति व्यतिरेकसिद्धिरिति भावः। विदुषो वर्तमानदेहपाते देहहेत्वभावात्तत्वधीरैकान्तिकफलेत्युपसंहरति -- पतित इति।