Sbg 13.22 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha [13.22] इत्यनन्तरोक्तिश्च व्याहन्येतेति भावः।
।।13.22।।उक्तैकदेशे शङ्कोदयार्थमुक्तवक्ष्यमाणपुनरुक्तिपरिहारार्थं चोक्तं विविच्यानुभाषते -- एवमिति। परिशुद्धस्यानुभवसुखैकतानस्य प्रत्यगात्मनो वैषयिकबाह्यसुखदुःखोपभोगो न तात्त्विकः स्यात्? अपि तु स्फटिकमणौ जपाकुसुमपाटलिमवदासक्तिविशेषादारोपित एव स्यादिति शङ्कापुरुषः इत्यर्धेन परिह्रियत इत्याह -- पुरुषस्येति। सत्त्वादिगुणा न साक्षाद्भोक्तव्याः? सुखदुःखमोहकार्योन्नेयतयातीन्द्रियत्वात्? तत्सुखदुःखानां भोक्तृत्वं च प्रसक्तमुपपादनीयम् तच्च हिशब्देन द्योतितम्। अत्र तुप्रकृतिजान् गुणान् भुङक्ते इति गुणभोक्तृत्वं कथमुच्यते इत्यत्राह -- गुणशब्द इति।स्वकार्येष्विति लक्षणानिमित्तकथनम्। स्वशब्देन गुणस्वरूपग्रहणम्। यद्यपि गुणशब्दः सुखदुःखेष्वपि मुख्यः? तथापि प्रकृतिगुणत्वस्यविवक्षितत्वादौपचारिक इत्युक्तम्। उत्तरत्रापि हि बहुशो गुणशब्दः सत्त्वादिविषय एव। यथावस्थिताकारोऽत्र पुरुषशब्देनानूदित इत्याह -- स्वतस्स्वानुभवैकसुख इति। प्रकृतिस्थशब्दः स्वास्थ्यादिपरोऽपि प्रयुज्यत इति तद्व्युदासायप्रकृतिसंसृष्ट इत्युक्तम्।प्रकृतिजान् इत्यनेन प्रकृत्याश्रयत्वं न विवक्षितम्?सुख्यहं? दुःख्यहम् इति स्वाश्रिततयैव तदुपलम्भात्? अन्तःकरणविकाराणां सुखादीनां स्वात्मन्यारोप इति पक्षस्य निर्दिष्टप्रमाणविरुद्धत्वात्। अतस्तदुपाधिकत्वमेव विवक्षितमिति ज्ञापनाय प्रकृतिसंसर्गोपाधिकत्वोक्तिः। आदिशब्देन पूर्वसमभिव्याहृतेच्छाद्वेषादिसङ्ग्रहः। तेऽपि हि कर्मफलभूता भोक्तव्याः। आत्मनेपदान्तत्वादर्थानन्वयाच्चात्र पालनार्थत्वमयुक्तम् अभ्यवहारार्थोऽप्यत्रानौचित्यादेव त्यक्तः अतोऽत्रभुङ्क्ते इति प्रस्तुतानुभवमात्रं विवक्षितम्। स्वसमवेतवर्तमानसुखदुःखसाक्षात्कारो भोग इत्यपि हि लक्षयन्तीत्यभिप्रायेणाह -- अनुभवतीति।
स्वानुभवैकतानस्य वैषयिसुखदुःखोपभोगे प्रकृतिसंसर्गो हेतुरुक्तः? परिशुद्धस्यात्मनः सोऽपि प्रकृतिसंसर्गः कथं इति शङ्कामनन्तरं परिहरतीत्यभिप्रायेणाहप्रकृतिसंसर्गहेतुमाहेति। बीजाङ्कुरन्यायेन प्रवाहानादित्वादन्योन्याश्रयणचक्रकादिपरिहारः सिद्धः अनवस्था च न दोषः प्रवाहेषु च पूर्वहेतुवैचित्र्यादुत्तरोत्तरवैचित्र्यसिद्धिः। गुगसङ्गस्य विहितनिषिद्धकर्मद्वारा तत्फलानुभवार्थविचित्रजन्महेतुत्वाच्छास्त्रसाफल्यं? रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ৷৷. कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् [छां.उ.5।10।7] इति सदसद्योनिप्राप्तेः कर्ममूलत्वश्रुत्यविरोधं चाह -- पूर्वपूर्वेति। सत्त्वादीनां साक्षात्सङ्गास्पदत्वायोगादत्रापि गुणशब्दस्य पूर्ववदौपचारिकत्वाभिप्रायेणसत्त्वादिगुणमयेषु सुखदुःखादिष्वित्युक्तम्। दुःखसङ्गो नाम दुःखे सुखभ्रान्त्या सङ्गः दुःखहेतुषु हि सागरतरणादिषु सुखलवसङ्गात्सज्जते भ्रान्तिज्ञानवतां पुंसां प्रहारोऽपि सुखायते? इति चाहुः। यो हि यदिच्छति? तस्य तस्मिन् तत्साधने वा कार्यताबोध इति स्थिते सुखस्य स्वरूपेण कर्तुमशक्यत्वात्तत्साधनेष्वेव पुरुषप्रवृत्तिरित्यभिप्रायेणतत्साधनभूतेष्वित्युक्तम्। श्रूयते च -- स यथाकामो भवति तत्क्रतुर्भवति इति अस्तिनास्तीत्याद्यर्थतायामनन्वयात्? तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा। अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा [छां.उ.5।10।7] इत्यादिश्रुत्यनुसाराच्च? साध्वसाधुशब्दः साध्वसाधुषु योनिष्विति वदतासदसतोर्योनिषु जन्मसु (शं.) इति परव्याख्या निरस्ता। बहुवचनेनैकस्यैव पुरुषस्य प्रवाहरूपेण विचित्रानन्तसदसद्योनिसम्बन्धो विवक्षित इत्यभिप्रायेणततश्च कर्मारभते? ततश्च जायत इत्यादिकमुक्तम्। एवं प्रवाहतोऽनादित्ववदविच्छेदात्प्रवाहानन्तत्वमपि किं स्यात् इति शङ्कां परिहरतियावदिति। प्रकृतिसंसर्गस्य गुणसंसर्गः कारणमित्युक्ते सति अर्थात्कारणाभावे कार्याभावः [वै.द.1।2।1] इति न्यायादमानित्वादिभिर्गुणसङ्गनिवृत्त्या सदसद्योनिजन्मप्रवाहोऽप्युच्छिद्येतेत्युक्तं भवतीत्याह -- तदिदमुक्तमिति। अत्र कण्ठोक्त्यभावेऽपि गुणसङ्गस्य पूर्वपूर्वदेहसम्बन्धप्रयुक्तत्वं कर्मद्वारा योनिप्राप्तिहेतुत्वादिकं च श्रुतिस्मृत्यन्तरानुसारादभिप्रायत उक्तमिति भावः।