Sbg 13.22 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।13.22।।तथाप्यविकारिणो जन्मरहितस्य भोक्तृत्वं कथमित्यत आह -- पुरुष इति। हि यस्मात्प्रकृतिस्थः तत्कार्यदेहे तादात्म्येन स्थितः पुरुषः। अतस्तज्जनितान्सुखादीन्भुङ्क्ते। अस्य च पुरुषस्य सतीषु देवादियोनिषु? असतीषु तिर्यगादियोनिषु यानि जन्मानि तेषु गुणसङ्गः। गुणैः शुभाशुभकर्मकारिभिरिन्द्रियैः सङ्गः कारणमित्यर्थः।