Sbg 13.21 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।13.21।।अथान्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः संसर्गविशेषनिबन्धनो व्यापारभेद उच्यते -- कार्यकारण इति श्लोकेन।कार्यं शरीरमिति। प्रकरणात् कारणशब्दस्य समभिव्याहाराच्च अत्र कार्यशब्दो भोगायतनाख्यकार्यविशेषपर इति भावः।इन्द्रियाणि दशैकं च [13।6] इति इन्द्रियादिप्रकृतविषयोऽत्र कारणशब्द इत्याहज्ञानकर्मात्मकानीति। एतेनकार्यं भूततन्मात्ररूपेण दशविधम् कारणं बुद्ध्यहङ्काररूपेण त्रयोदशविधम् तेषां स्वरूपोत्पत्तौ प्रतिक्षणपरिणामे च हेतुर्मूलप्रकृतिः इत्यादिव्याख्यानान्तराणि निरस्तानि।कार्यकरणकर्तृत्वे इति (शं.) परोक्तं पाठान्तरमप्रसिद्धेरनादृतम्। कर्तृशब्दोऽत्र न प्रयत्नाद्याश्रयत्वपरः? अचेतने तदसम्भवात् अतो यथास्वं व्यापारश्रयत्वं विवक्षितमित्याह -- तेषां क्रियाकारित्व इति। यद्यप्यबुद्धिपूर्वेषु केषुचिन्मनश्श्रोत्रादिव्यापारेषु पुरुषेच्छाधीनत्वं नास्ति? तथापि तेषां पुरुषभोगार्थत्वात् भोक्तृत्वदशापन्नपुरुषसन्निधानरूपमधिष्ठानमपेक्षितम् बाहुल्येन च प्रयत्नाधीनत्वमस्तीत्यभिप्रायेणाहपुरुषाधिष्ठितेति। विभज्य व्यापारनिर्देशात्प्रकृतिरेवेत्यवधारणलाभः।


ननु पुरुषाधिष्ठिता प्रकृतिरित्ययुक्तं? प्रलयदशायां करणकलेवरविधुरस्य संसारिणः स्वेच्छया प्रकृत्यधिष्ठानासम्भवादित्यत्राहपुरुषाधिष्ठितक्षेत्राकारपरिणतेति। भोगतत्साधनयोराश्रयत्वलक्षणं हेतुत्वमिह विविच्यत इत्यभिप्रायेण प्रकृत्याश्रयत्वादिकथनम्। प्रकृतेः कर्तृत्वेकर्ता शास्त्रार्थवत्त्वात् [ब्र.सू.2।3।33] इत्यादिभिः सूत्रैर्विरोधः स्यादित्यत्राहपुरुषस्याधिष्ठातृत्वमेवेति। यदि पुरुषस्याधिष्ठातृत्वमात्रं? तदा साक्षात्कर्तृत्वं प्रकृतेरेवेति पुरुषस्य कर्तृत्वमौपचारिकं स्यादित्यत्राहशरीराधिष्ठानेति।अयमभिप्रायः -- न हि प्रयत्नाधीनपरिस्पन्दाश्रयत्वलक्षणं कर्तृत्वं पुरुषस्य सूत्र्यते तत्र शास्त्रार्थवत्त्वादिहेतूनामन्यथासिद्धेः नच शरीरादिप्रेरकप्रयत्नाश्रयत्वे कर्तृशब्दस्यौपचारिकता? कृतिप्रयत्नयोः पर्यायत्वात्कृत्याश्रयत्वरूपत्वाच्च कर्तृत्वस्य। ततश्चान्यत्रैव कर्तृत्वमौपचारिकमिति फलितम्। यदि पुनर्यथास्वं व्यापाराश्रयत्वमेव सर्वेषां कर्तृत्वमित्युच्यते तथापि पुरुषस्य कर्तृत्वं मुख्यमेव।


ननुपुरुषः सुखदुःखानां भोक्ता इत्ययुक्तम्? शुद्धस्य पुरुषस्य प्रियाप्रियविधुरत्वश्रुतेः। यद्यपि मोक्षे विलक्षणं सुखमनुभूयते? तथापि दुःखप्रसङ्गस्तु नास्त्येवेत्यत्राह -- प्रकृतिसंसृष्ट इति। नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति [छां.उ.8।12।1] इत्यपि श्रूयत इति भावः। विषयेन्द्रियादिरूपेण परिणतायाः प्रकृतेरपि भोक्तृत्वे हेतुत्वमस्ति तत्कथं पुरुषो विशिष्य निर्दिश्यते इत्यत्राहसुखदुःखानुभवाश्रय इति। तत्कालस्वसमवेतसुखदुःखसाक्षात्कारो भोग इति भोगलक्षणमप्यनेन सूचितम्। एतेन निर्विकारपुरुषसन्निधानात् प्रकृतेरेव भोक्तृत्वमिति पक्षो निरस्तः। तदापुरुषोऽस्ति भोक्तृभावात् [सां.का.17]पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य [सां.का.21] इत्यादिस्वग्रन्थविरोधश्च। अयं हि पक्षः शारीरकेरचनानुपपत्तेश्च [ब्र.सू.2।2।1] इत्यारभ्यविप्रतिषेधाच्चासमञ्जसम् [ब्र.सू.2।2।10] इत्यन्तैः सूत्रैर्विस्तरेण प्रतिक्षिप्तः। अत्र च श्लोके यदि प्रकृतेरेव भोक्तृत्वमपि विवक्षितं स्यात्? तदा कर्तृत्वे भोक्तृत्वे च प्रकृतिरेव हेतुरिति वक्तव्यम् नतु विवेक्तव्यम् भोक्तृत्वस्यापि कर्तृत्वविशेषत्वात्?शास्त्रफलं प्रयोक्तरि [पू.मी.3।7।10] इति न्यायाच्च।


न च वाच्यं कर्तृत्वं प्रकृतेः स्वतस्सिद्धं? भोक्तृत्वे तु तस्याः पुरुषो हेतुरिति प्रदर्शनाय विवेक इति पुरुषनिरपेक्षायाः केवलायाः प्रकृतेः कर्तृत्वस्याप्ययोगादनभ्युपगमाच्च। अन्यथा विशुद्धकेवलज्ञानोदयेऽपि तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् [सां.का.65] इत्युक्तसप्तरूपविनिवृत्तिभङ्गप्रसङ्गात्। तथाच मुक्तावपि यथापूर्वमेव प्रकृतिप्रवृत्तिः स्यात्।सङ्घातपरार्थत्वात्ित्रगुणादिविपर्ययादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च।।जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च। पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्यया(च्चैव)च्च।।[सां.का.1718] इत्यधिष्ठानायुगपत्प्रवृत्तिभ्यां पुरुषतद्बहुत्वकल्पनं च भज्येत। अत्रपुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्