Sbg 13.21 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।13.21।।सृष्ट्यां तयोः कार्यभेदमाह -- कार्येति। कार्यं बन्धमोक्षरूपं? तस्य कारणरूपा विकारा गुणाश्च एतेषां कर्त्तृत्वे समुत्पादकत्वे पुरुषाधिष्ठिता प्रकृतिर्हेतुः?प्रकृतिसम्भवान् [13।20] इत्युक्तत्वात्। पुरुषस्य तु तदन्तश्चेतयितृत्वमेव तदपेक्षयाऽधिकंकर्त्ता शास्त्रार्थवत्वात् [ब्र.सू.2।3।33] इत्यादिसूत्रोक्तं क्षेत्राधिष्ठानप्रयत्नहेतुत्त्वमेव पुरुषस्य कर्तृत्वं प्राकृतवदभ्युपगम्यते। स तु तत्संसृष्टस्तदुद्भूतानां सुखदुःखानां,भोक्तृत्वे हेतुः सुखदुःखाद्यनुभवाश्रयः। यद्यप्युभयं क्षेत्रधर्म इति वक्तव्यं तथापि विक्रियाया जडावसानत्वात् क्षेत्रप्राधान्यं भोगस्य चिदवसानत्वदर्शनाच्चेतनाप्राधान्यमित्यर्थः।