Sbg 13.21 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.21।।विकाराणां प्रकृतिसंभवत्वं विवेचयन् पुरुषस्य संसारहेतुत्वं दर्शयति -- कार्येति। कार्यं शरीरं करणानीन्द्रियाणि तत्स्थानि त्रयोदश देहारम्भकाणि भूतानि। विषयाश्चेह कार्यग्रहणेन गृह्यन्ते। गुणाश्च सुखदुःखमोहात्मकाः करणाश्रयत्वात्करणग्रहणेन गृह्यन्ते। तेषां कार्यकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रकृतिरुच्यते महर्षिभिः। कार्यकारणेति दीर्घपाठेपि स एवार्थः। एवं प्रकृतेः संसारकारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत्तदाह -- पुरुष इति। पुरुषः क्षेत्रज्ञः परा प्रकृतिरिति प्राग्व्याख्यातः स सुखदुःखानां सुखदुःखमोहानां भोग्यानां सर्वेषामपि भोक्तृत्वे वृत्त्युपरक्तोपलम्भे हेतुरुच्यते।