Sbg 13.21 scmad

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhavacharya ।।13.21।।कार्यं शरीरम्।शरीरं कार्यमुच्यते इत्यभिधानम्। कारणानीन्द्रियाणि भोगोऽनुभवः। स हि चिद्रूपत्वादनुभवति। प्रकृतिश्च जडत्वात्परिणामिनी।कार्यकारणकर्त्तृत्वे कारणं प्रकृतिं विदः। भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् [3।26।8] इति भागवते।