Sbg 13.21 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.21।।श्लोकान्तरं प्रश्नोत्तरत्वेनावतारयति -- यदिति। निमित्तं वक्तुमादौ संसारित्वमस्याविद्यैक्याध्यासादित्याह -- पुरुष इति। यस्मात्प्रकृतिमात्मत्वेन गतस्तस्माद्भुङ्क्त इति योजना। गुणविषयं भोगमभिनयति -- सुखीति। अविद्याया भोगहेतुत्वात्किं कारणान्वेषणयेत्याशङ्क्याह -- सत्यमपीति। सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह -- स यथेति। उक्तेऽर्थे द्वितीयार्धमवतार्य व्याचष्टे -- तदेतदित्यादिना। साध्याहारं योजनान्तरमाह -- अथवेति। सदसद्योनीर्विविच्य व्याचष्टे -- सद्योनय इति। योनिद्वयनिर्देशान्मध्यवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिता इत्याह -- सामर्थ्यादिति। सङ्गस्य संसारकारणत्वे नाविद्यायास्तत्कारणत्वमेकस्मादेव हेतोस्तदुपपत्तेरित्याशङ्क्याह -- एतदिति। अविद्योपादानं सङ्गो निमित्तमित्युभयोरपि कारणत्वं सिध्यतीत्यर्थः। द्विविधहेतूक्तेर्विवक्षितं फलमाह -- तच्चेति। सासङ्गस्याज्ञानस्य स्वतोऽनिवृत्तेस्तन्निवर्तकं वाच्यमित्याशङ्क्याह -- अस्येति। वैराग्ये सति संन्यासस्तत्पूर्वकं च ज्ञानं सासङ्गाज्ञाननिवर्तकमित्यर्थः। उक्ते ज्ञाने मानमाह -- गीतेति। अध्यायादौ चोक्तं ज्ञानमुदाहृतमित्याह -- तच्चेति। तदेव ज्ञानं यज्ज्ञात्वेत्यादिना न सत्तन्नासदित्यन्तेनान्यनिषेधेन सर्वतःपाणिपादमित्यादिना चातद्धर्माध्यासेनोक्तमित्याह -- यज्ज्ञात्वेति।