Sbg 13.20 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।13.20।।अथस च यो यत्प्रभावश्च [13।4] इत्येतत्पूर्वप्रतिज्ञातं पुरुषतत्त्वं कथयिष्यन् अत्यन्तविभक्तस्वभावयोः प्रकृत्यात्मनोः कारणस्वरूपादनन्ययोः सफलं सर्वहेतुत्वमाह -- पञ्चभिः। तत्र प्रकृतिरात्मव्यतिरिक्ता साङ्ख्यैकदेशिनो मते पुरुषवन्नित्या। भगवदीयसाङ्ख्ये तु भागवतः शक्तिः। साङ्ख्यशास्त्रं तु न भगवन्तं विषयीकरोति तत्प्रवर्त्तकत्वात्तन्नियामकत्वाच्च। अक्षरादर्वागेव तच्छास्त्रप्रवृत्तेः पञ्चधा भावना अनादिः पुरुषोत्तमोऽक्षरं कालः प्रकृतिपुरुषाविति। इदं मतमाश्रित्यात्र साङ्ख्यसिद्धान्तप्रवृत्तिः? न तु प्राकृतमाश्रित्य।तथाहि -- प्रकृतिमिति। पुरुषमिति। उभयत्र सर्वसमष्टिरूपविवक्षयैकवचनम्। एतच्चस एव (एषः) प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः। यदृच्छयैवोपगतामभ्यपपद्यत लीलया। गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः। विलोक्य सद्यो मुमुहे स इह ज्ञानगृहया [भाग.3।26।4?5] इति भागवतवाक्येनैकार्थयति। तत्र कार्यकारणरूपेण प्रकृतिर्द्विविधा? कार्यरूपा जीवात्मोपाधिरविद्यायुक्ता कारणरूपा माया परमात्मनः। एवं पुरुषोऽपि द्विविधः कारणमंशी मूलपुरुषात्मा? तस्य कार्यं अंशा जीवपुरुषा इति। तत्र स एव पुरुषः प्रकृतिं लीलया क्रीडया हेतुनाऽभ्यपद्यत। कीदृशीं प्रकृतिं यदृच्छयैव भगवदिच्छयैवोपगतामिति। तां तं च उभावप्येतौ चिरादधिगम्यमानौ मदंशभूतौ सच्चित्स्वभावौ कारणस्वरूपानन्यत्वादनादी एव विद्धि। बन्धहेतुभूतान्विकारांश्चेच्छाद्वेषादीन् अमानित्वाद्विकारांश्च। गुणानमृतहेतुभूतान्सत्वादीन्वा प्रकृतिसम्भवाननादीन् विद्धि। सर्गकाले मे मायांशागुणात्मिकाऽचेतना प्रकृतिः पुरुषेण मूलभूताक्षरांशेन संसृष्टा महदहङ्कारभूम्यादिरूपिणी क्षेत्राकारेण विपरिणता अन्तरासृष्ट्या नीहाररूपयाऽविद्ययाऽध्यस्ता प्रकृतिः सविकारैरिच्छाद्वेषादिभिः पुरुषस्य बन्धहेतुः। सैव मायानिर्मितया विद्ययाऽवगताऽमानित्वादिभिः स्वविकारैः पुरुषस्यामृतहेतुर्भवतीत्यर्थः।