Sbg 13.20 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।13.20।।तदेवंतत्क्षेत्रं यच्च यादृक्च इत्येतावत्प्रपञ्चितम्। इदानीं तुयद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च इत्येतत्पूर्वं प्रतिज्ञातमेव प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन प्रपञ्चयति -- प्रकृतिमिति पञ्चभिः। तत्र प्रकृतिपुरुषयोरादिमत्त्वे तयोरपि प्रकृत्यन्तरेण भाव्यमित्यनवस्थापत्तिः स्यात्। अतस्तावुभावनादी विद्धि। अनादेरीश्वरस्य शक्तित्वात्प्रकृतिरनादिः? पुरुषोऽपि तदंशत्वादनादिरेव? अत्र च परमेश्वरस्य तच्छक्तीनां चानादित्वं नित्यत्वं च श्रीमच्छंकरभगवद्भाष्यकृद्भिरतिप्रबन्धेनोपपादितमिति ग्रन्थबाहुल्यान्नास्माभिः प्रतन्यते। विकारांश्च देहेन्द्रियादीन्? गुणांश्च गुणपरिणामान्सुखदुःखमोहादीन्प्रकृतेः संभवान्संभूतान्विद्धि।