Sbg 13.20 scjaya
Sanskrit Commentary By Sri Jayatritha ।।13.20।।ननुप्रकृतिं पुरुषं चैव विद्धि इत्यादिकमप्रतिज्ञातं किमित्युच्यते मैवम्।यादृक्च [13।4] इति प्रतिज्ञातस्य सप्रकारस्य क्षेत्रस्य कथनात् तत्प्रतिज्ञाक्रमेण प्रागेव कुतो नोक्तं इत्यत आह -- यतश्चे ति।यतश्च यत् [13।4] इति प्रतिज्ञातं प्रेरकस्वरूपं तावत्प्रभावानन्तरं वक्तव्यं प्राप्तम्। तत्र प्रेरकस्य स्वरूपनिरूपणं प्रेर्यज्ञानमपेक्षते। प्रेर्यं च सप्रकारं क्षेत्रम्? प्रेरकस्वरूपं वक्तुं अनेन प्रेरणीयं सप्रकारं क्षेत्रमुच्यते। तस्य प्रागपि वचने,गौरवं स्यादिति भावः। तर्हि प्रकृतीत्यादि कथमुच्यते ईश्वरातिरिक्तः सर्वोऽपि चेतनाचेतनवर्गः क्षेत्रमित्युच्यते। तत्र प्रकृतिशब्देनमहाभूतानि [13।6] इत्यादिनोक्तानि चतुर्विंशतितत्त्वानि गृह्यन्ते। विकारशब्देनेच्छाद्युपलक्षिताः क्षेत्रान्तर्भूता अपि गुणत्रयाद्याः सर्वे विकारा विवक्षाविशेषवशेन पृथगुपात्ताः। पुरुषशब्देन जीव इति।यावत्सञ्जायते [13।27] इत्यादिना पुनर्वक्ष्यमाणत्वात्पुनरुक्तिदोषं परिहर्तुं संङ्क्षिप्येत्युक्तम्। आह सप्रकारान्निरूपयति। गुणाः सुखदुःखमोहा इति [शं.] कश्चित्। कार्यकारणलक्षणा इत्यन्वयः? तदुभयं निराकर्तुं व्याचष्टे -- गुणा इति। ननु सत्वरजस्तमसामपि प्रकृतिविकारत्वात्विकारांश्च गुणांश्च इति। पृथगुक्तिः किमर्था इत्यत आह -- तेषामि ति। इति ज्ञापयितुमिति शेषः। विकाराः पृथगुक्ता इति विकाराश्च गुणाश्च पृथगुक्ता इत्यर्थः। कार्याश्च तेऽकार्याश्च। तिखस्त्रयः। अनेन सुखाद्यङ्गीकारे विकारेभ्यः पृथग्ग्रहणमयुक्तमित्यपि सूचितम्।