Sbg 13.20 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.20।।विकाराणां गुणानां प्रकृतेश्च स्वरूपमाकाङ्क्षाद्वारा निर्णेतुमुत्तरश्लोकपूर्वार्धं पातयति -- के पुनरिति। पुरुषस्यानादित्वकृतं बन्धहेतुत्वमाह -- पुरुष इति। पूर्वार्धं व्याचष्टे -- कार्यमित्यादिना। ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं मनो बुद्धिरहंकारश्चेति त्रयोदश करणानि। तथापि भूतानां विषयाणां च ग्रहणात्कथं तेषां प्रकृतिकार्यतेत्याशङ्क्याह -- देहेति। तथापि गुणानामिहाग्रहणान्न प्रकृतिकार्यत्वं तत्राह -- गुणाश्चेति। उक्तरीत्या निष्पन्नमर्थमाह -- एवमिति। पाठान्तरमनूद्य व्याख्यापूर्वकमर्थाभेदमाह -- कार्येत्यादिना। व्याख्यान्तरमाह -- अथवेति। एकादशेन्द्रियाणि पञ्च विषया इति षोडशसंख्याकविकारोऽत्र कार्यशब्दार्थः? महानहंकारो भूततन्मात्राणीति प्रकृतिविकृतयः सप्त कारणं? तेषामारम्भकत्वेन कर्तृत्वेन हेतुराश्रयो मूलप्रकृतिरित्यर्थः। उत्तरार्धस्य तात्पर्यमाह -- पुरुषश्चेति। तस्य परमात्मत्वं व्यवच्छिनत्ति -- जीव इति। तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह -- क्षेत्रज्ञ इति। तस्यानौपाधिकत्वं वारयति -- भोक्तेति। तयोः,संसारकारणत्वमुपपादयितुं शङ्कते -- कथमिति। अन्वयव्यतिरेकाभ्यां तयोस्तथात्वमित्याह -- अत्रेति। तत्र व्यतिरेकं दर्शयति -- कार्येति। नहि नित्यमुक्तस्यात्मनः स्वतः संसारोऽस्तीत्यर्थः। इदानीमन्वयमाह -- यदेति। अन्वयादिफलमुपसंहरति -- अत इति। आत्मनोऽविक्रियस्य संसरणं नोचितमित्याक्षिपति -- कः पुनरिति। सुखदुःखान्यतरसाक्षात्कारो भोगः स चाविक्रियस्यैव द्रष्टुः संसारस्तथाविधभोक्तृत्वमस्य संसारित्वमित्युत्तरमाह -- सुखेति। श्लोकव्याख्यासमाप्तावितिशब्दः।