Sbg 13.1 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।13.1।।श्रीभगवानुवाच -- इदं शरीरं देवः अहम्? मनुष्यः अहम्? स्थूलः अहम्? कृशः अहम्? इति आत्मना भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुः आत्मनः अर्थान्तरभूतं तस्य भोग क्षेत्रम् इति शरीरयाथात्म्यविद्भिः अभिधीयते।एतद् अवयवशः संघातरूपेण च इदम् अहं वेद्मि इति यो वेत्ति तं वेद्यभूताद् अस्माद् वेदितृत्वेन अर्थान्तरभूतं क्षेत्रज्ञ इति तद्विदः -- आत्मयाथात्म्यविदः प्राहुः।यद्यपि देहव्यतिरिक्तघटाद्यर्थानुसंधानवेलायाम् देवः अहम्? मनुष्यः अहम्? घटादिकं जानामि इति देहसामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसंधत्ते तथापि देहानुभववेलायां देहम् अपि घटादिकम् इव इदम् अहं वेद्मि इति वेद्यतया वेदिता अनुभवति इति वेत्तुः आत्मनो वेद्यतया शरीरम् अपि घटादिवद् अर्थान्तरभूतम् तथा घटादेः इव वेद्यभूतात् शरीराद् अपि वेदिता क्षेत्रज्ञः अर्थान्तरभूतः।


सामानाधिकरण्येन प्रतीतिः तु वस्तुतः शरीरस्य गोत्वादिवद् आत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेः उपपन्ना। तत्र वेदितुः असाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद् योगसंस्कृतमनोविषयत्वात् च? प्रकृतिसन्निधानाद् एव मूढाः प्रकृत्याकारम् एव वेदितारं पश्यन्ति। तथा च वक्ष्यति -- उत्क्रामन्तं स्थितं वापि भुञ्जानंवा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।। (गीता 15।10) इति।