Sbg 13.1 scanand
Sanskrit Commentary By Sri Anandgiri ।।13.1।।प्रथममध्यमयोः षट्कयोस्त्वंतत्पदार्थावुक्तौ? अन्तिमस्तु षट्को वाक्यार्थनिष्ठः सम्यग्धीप्रधानोऽधुनारभ्यते। तत्र क्षेत्राध्यायमन्तिमषट्काद्यमवतितारयिषुव्यवहितं वृत्तं कीर्तयति -- सप्तम इति। प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -- ईश्वरस्येति। भूमिरित्यादिनोक्ता सत्त्वादिरूपा प्रकृतिरपरेत्यत्र हेतुमाह -- संसारेति। इतस्त्वन्यामित्यादिनोक्तां प्रकृतिमनुक्रामति -- परा चेति। परत्वे हेतुं सूचयति -- ईश्वरात्मिकेति। किमर्थमीश्वरस्य प्रकृतिद्वयमित्याशङ्क्य कारणत्वार्थमित्याह -- याभ्यामिति। वृत्तमनूद्य वर्तिष्यमाणाध्यायारम्भप्रकारमाह -- तत्रेति। व्यवहितेन संबन्धमुक्त्वाऽव्यवहितेन तं विवक्षुरव्यवहितमनुवदति -- अतीतेति। निष्ठोक्तेति संबन्धः। निष्ठामेव व्याचष्टे -- यथेति। वर्तन्ते धर्मजातमनुतिष्ठन्ति तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तमिति योजना। अव्यवहितमेवानूद्य तेनोत्तरस्य संबन्धं संगिरते -- केनेति। तत्त्वज्ञानोक्तेरुक्तार्थेन समुच्चयार्थश्चकारः। जीवानां सुखदुःखादिभेदभाजां प्रतिक्षेत्रं भिन्नानां नाक्षरेणैक्यमित्याशङ्क्य संसारस्यात्मधर्मत्वं निराकृत्य संघातनिष्ठत्वं वक्तुं संघातोत्पत्तिप्रकारमाह -- प्रकृतिश्चेति। भोगश्चापवर्गश्चार्थौ तयोरेव कर्तव्यतयेति यावत्। नन्वनन्तरश्लोके शरीरनिर्देशात्तस्योत्पत्तिर्वक्तव्या किमिति संघातस्योच्यते तत्राह -- सोऽयमिति। उक्तेऽर्थे भगवद्वचनमवतारयति -- तदेतदिति। तत्र द्रष्टृत्वेन संघातदृश्यादन्यमात्मानं निर्दिशति -- इदमिति। उक्तं प्रत्यक्षदृश्यविशिष्टं किंचिदिति शेषः। शरीरस्यात्मनोऽन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते -- क्षतेति। क्षयो नाशः क्षरणमपक्षयः। यथा क्षेत्रे बीजमुप्तं फलति तद्वदित्याह -- क्षेत्रवद्वेति। क्षेत्रपदादुपरिस्थितमितिपदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यादित्याह -- इतिशब्द इति। क्षेत्रमित्येवमनेन क्षेत्रशब्देनेत्यर्थः। दृश्यं देहमुक्त्वा ततोऽतिरिक्तं द्रष्टारमाह -- एतदिति। स्वाभाविकं मनुष्योऽहमिति ज्ञानमौपदेशिकं देहो नात्मा दृश्यत्वादित्यादिविभागशः स्वतोऽतिरिक्तत्वेनेत्यर्थः। क्षेत्रमित्यत्रेतिशब्दवदत्रापीतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वमाह -- इतिशब्द इति। क्षेत्रज्ञ इत्येवं क्षेत्रज्ञशब्देन तं प्राहुरिति संबन्धः। प्रवक्तृ़न्प्रश्नपूर्वकमाह -- क इत्यादिना।