Sbg 13.19 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।13.19।।प्रकृतिः पुरुषश्चोभौ परमात्माऽभवत्पुरा। यद्रूपं समधिष्ठाय तदक्षरमुदीरितम् इतीति।महाभूतान्यहङ्कारः इत्यादिनासङ्घातश्चेतना धृतिः [13।67] इत्यन्तेन क्षेत्रतत्वं समासेनोक्तं?अमानित्वं [13।812] इत्यादिनातत्वज्ञानार्थदर्शनम् इत्यन्तेन ज्ञानं?ज्ञेयम् [13।18] इत्यादिना ज्ञेयं तत्तदप्यात्मतत्त्वस्य ज्ञानसाधनमुक्तं?अनादिमत्परं [13।13] इत्यादिना चहृदि सर्वस्य धिष्ठितं [13।18] इत्यन्तेन ज्ञेयस्य च ब्रह्मणोऽक्षरात्मत्वं सङ्क्षेपेणोक्तम्। इदं सर्वं मद्भक्तिमानेव विज्ञाय मद्भावाय मद्गुणवत्वायोपपन्नो भवतीत्यर्थः।