Sbg 13.19 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।13.19।। उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं च अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयं चअनादिमत्पर ब्रह्म इत्यादिविष्ठितम् इत्यन्तम्। वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम्। एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति।