Sbg 13.19 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।13.19।। -- इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् तत् इत्यादि तमसः परमुच्यते (गीता 13।17) इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते -- मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय? मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।।तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते? परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते --,