Sbg 13.19 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।13.19।।प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि। बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन् अमानित्वादिकान् च गुणान् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि ।पुरुषेण संसृष्टा इयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणता प्रकृतिः स्वविकारैः इच्छाद्वेषादिभिः पुरुषस्य बन्धहेतुः भवति। सा एव अमानित्वादिभिः स्वविकारैः पुरुषस्यापवर्ग हेतुः भवति इत्यर्थः।संसृष्टयोः प्रकृतिपुरुषयोः कार्यभेदम् आह --