Sbg 13.19 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।13.19।।उक्तमर्थजातमुपसंहरति -- इतीति। क्षेत्रं महाभूतादिधृत्यन्तम्। ज्ञानं ज्ञानसाधनममानित्वादि तत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयमनादिमत्परमित्यादि धिष्ठितमित्यन्तम्। श्रुतिभ्यः स्मृतिभ्यश्च समासतः संक्षेपत उक्तम्। मद्भक्त एतत्त्रयं विज्ञाय मद्भावाय ब्रह्मभावायोपपद्यते युक्तो भवति। भक्त्यैव प्राप्यं ब्रह्म यत्प्राप्य ब्रह्मैव भवति। तथा च श्रुतिःयस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति।ब्रह्म वेद ब्रह्मैव भवति इति च।