Sbg 13.19 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।13.19।।उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति -- इति क्षेत्रमिति। इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं? ज्ञेयं च अनादिमत्परं ब्रह्म धिष्ठितमित्यन्तं? श्रुतिभ्यः स्मृतिभ्यश्चाकृष्य त्रयमपि मन्दबुद्ध्यनुग्रहाय मया संक्षेपेणोक्तम्। एतावानेव हि सर्वो वेदार्थो गीतार्थश्च। अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह -- मद्भक्त इति। मद्भक्तः मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति।यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति श्रुतेः। तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तेत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः।