Sbg 13.19 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।13.19।।ननु ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेत् इत्याकाङ्क्षायां साधनं पश्चाद्वक्तव्यं तत्कुतः प्रथमत उक्तं इत्यत आह -- विकारे ति। विकारेष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्धातप्रक्रिययोक्तमिति भावः। उद्देशक्रमानुसारेणयतश्च यत् [13।4] इति प्रथममनुक्त्वास च यो यत्प्रभावश्च [13।4] इत्येतत्कुत उक्तमित्यत आह -- बहुत्वादि ति। सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचाराद्धेत्वन्तरोक्तिः। अलौकिकस्य प्रभावस्य बुद्धयारोहे हि साधनानामत्युपयोगः? न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः। तत्प्रसङ्गेन चेति भावः।